|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.95. अध्यायः 095
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमहिमानुवर्णनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
यौ च स्यातां चरणेनोपपन्नौ
यौ विद्यया सदृशौ जन्मना च।
ताभ्यां दानं कतरस्मै विशिष्ट-
मयाचमानाय च याचते च॥ 13-95-1(85221)
भीष्म उवाच। 13-95-2x(7083)
श्रेयो वै याचतः पार्थ दानमाहुरयाचते।
अर्हत्तमो वै धृतिमान्कृपणादकृतात्मनः॥ 13-95-2(85222)
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः।
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान्॥ 13-95-3(85223)
याच्यमाहुरनीशस्य अतिहारं च भारत।
उद्वेजयन्ति याचन्ति यदा भूतानि दस्युवत्॥ 13-95-4(85224)
म्रियते याचमानो वै तमनु म्रियतेऽददत्।
ददत्संजीवयत्येनमात्मानं च युधिष्ठिर॥ 13-95-5(85225)
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते।
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत्॥ 13-95-6(85226)
यदि वै तादृशा राष्ट्रे वसेयुस्ते द्विजोत्तमाः।
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः॥ 13-95-7(85227)
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि।
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः॥ 13-95-8(85228)
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः।
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तपः 13-95-9(85229)
ददद्बहुविधान्देयानुपच्छन्दयते च तान्॥ 13-95-10(85230)
यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम्।
विद्यावेदव्रतवति तद्दानफलमुच्यते॥ 13-95-11(85231)
विद्यावेदव्रतस्नाता न व्यापाश्रयजीविनः।
गूढस्वाध्यायतपसो ब्राह्मणान्संशितव्रतान्॥ 13-95-12(85232)
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः।
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान्॥ 13-95-13(85233)
अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर।
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः॥ 13-95-14(85234)
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान्गृहान्।
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः॥ 13-95-15(85235)
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः।
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत॥ 13-95-16(85236)
माध्यंदिनं ते सवनं ददतस्तात वर्तताम्।
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव॥ 13-95-17(85237)
तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर।
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि॥ 13-95-18(85238)
अहिंसा सर्वभूतेभ्यः संविभागश्च सर्वशः।
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते॥ 13-95-19(85239)
एथ ते चिततो यज्ञः श्रद्धापूतः सदक्षिणः।
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम्॥ ॥ 13-95-20(85240)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चनवतितमोऽध्यायः॥ 95 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-95-1 चरणेनाचरणेन॥ 7-95-2 याचतः याचकात् तद्दानादिस्यर्थः॥ 7-95-3 अनर्थना अयाच्चा। 7-95-4 याच्यं याचनारूपं कर्म। अनीशस्य दरिद्रस्यातिहारं तिरस्कारमाहुः। यदा यतः याचन्ति याचमानानि भूतानि दस्युवल्लोकानुद्वेजयन्ति॥ 7-95-10 उपच्छन्दयते उपच्छन्दयेत। ददद्बहुविधान्दायानुपागच्छन्नयाचतामिति झ.पाठः। अयाचतां अयाचमानानाम्। उपागच्छन्समीपमुपसर्पन् दायान्धनादीन्ददत् दाता भवेति शेषः॥ 7-95-15 सोद्धरणान्स्वामिन्यागते दास्यामीति याचमानेभ्यो बालकेभ्य आशाप्रदर्शनमुद्धरणं तत्सहितान्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|